द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित । आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत्
drā́pe ándhasaspate dáridra nī́lalohita | āsā́ṃ prajā́nām eṣā́ṃ paśū́nāṃ mā́ bheḥ mā́ roṅ mó ca naḥ kíṃcánā́mamat
हे द्राप, अन्धस् (रस) के स्वामी, हे दरिद्र (भ्रमणशील) नील-लोहित! हमारी इन प्रजाओं और इन पशुओं के विषय में—कोई न डरे, कोई न चिल्लाए; और हमें किसी भी प्रकार की कोई हानि न पहुँचे।
द्रापे । अन्धसः-पते । दरिद्र । नील-लोहित । आसाम् । प्रजानाम् । एषाम् । पशूनाम् । मा । भेः । मा । रोङ् । मो । च । नः । किञ्चन । अममत्