वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृᳪहा॒न्तरि॑क्षं॒ मा हि॑ᳪसीः । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । वा॒युष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
viśvákarmā tvā sādayatv antárikṣasya pṛṣṭhé vyácasvatīṃ práthasvatīm | antárikṣaṃ yacchāntárikṣaṃ dṛṃhāntárikṣaṃ mā hiṃsīḥ | víśvasmai prāṇā́yāpānā́ya vyānā́yodānā́ya pratiṣṭhā́yai carítrāya | vāyúṣ ṭvā́ 'bhí pātu mahyā́ svastyā́ chárdiṣā śántamena tayā́ devátayā 'ṅgirasvád dhruvā́ sīdá
विश्वकर्मा तुम्हें अन्तरिक्ष के पृष्ठ पर बैठाए—विस्तार करने वाली, दूर तक फैलने वाली। तुम अन्तरिक्ष को धारण करो; अन्तरिक्ष को दृढ़ करो; अन्तरिक्ष को आहत मत करो। समस्त के लिए—प्राण, अपान, व्यान, उदान के लिए; प्रतिष्ठा के लिए और चरित्र (उचित गमन/क्रम) के लिए। वायु तुम्हारी सर्वतः रक्षा करे—महान् कल्याण से, स्वस्ति से, और अत्यन्त शान्त छर्दि (आश्रय/आवरण) से। उस देवता के द्वारा, अङ्गिरस्-वत्, तुम ध्रुवा (अचल) होकर बैठो।
वि॒श्वक॑र्मा । त्वा॒ । सा॒द॒य॒तु॒ । अ॒न्तरि॑क्षस्य । पृ॒ष्ठे । व्यच॑स्वतीम् । प्रथ॑स्वतीम् । अ॒न्तरि॑क्षम् । य॒च्छ॒ । अ॒न्तरि॑क्षम् । दृᳪ॒ह॒ । अ॒न्तरि॑क्षम् । मा । हि॑ᳪसीः । विश्व॑स्मै । प्रा॒णाय॑ । अ॒पा॒नाय॑ । व्या॒नाय॑ । उ॒दा॒नाय॑ । प्रति॒ष्ठायै॑ । च॒रित्रा॑य । वा॒युः । त्वा॒ । अ॒भि । पा॒तु॒ । म॒ह्या । स्व॒स्त्या । छ॒र्दिषा॒ । शन्त॑मेन । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वा । सी॒द॒