पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हि॑ᳪसिषं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क्
pṛthiví devayajanī́ oṣadhayās te mū́laṃ mā́ hiṃsiṣaṃ vrajáṃ gaccha goṣṭhā́naṃ várṣatu te dyaúr bādhāna deva savitaḥ paramásyāṃ pṛthivyā́ṃ śaténa pāśáir yó ’smān dveṣṭí yaṃ́ ca vayáṃ dviṣmá tam áto mā́ mauk
हे पृथ्वी, देवयजन के योग्य! तेरी ओषधियों की जड़ तुझमें है; मैं तेरी जड़ को आहत न करूँ। तू व्रज—गौशाला, गोष्ठ—की ओर जा। तुझ पर द्यौ (स्वर्ग) वर्षा करे। हे देव सविता, परम पृथ्वी के दूरस्थ छोर पर, सौ पाशों से उसे बाँध दे जो हमसे द्वेष करता है, और उसे भी जिसे हम द्वेष करते हैं; उससे आगे मुझे न छू।
पृथिवि । देव-यजनी । ओषधयः । ते । मूलम् । मा । हिंसिषम् । व्रजम् । गच्छ । गो-स्थानम् । वर्षतु । ते । द्यौः । बधान । देव । सवितः । परमस्याम् । पृथिव्याम् । शतेन । पाशैः । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । तम् । अतः । मा । मोक्