दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । सं व॑पामि॒ समाप॒ ओष॑धीभि॒: समोष॑धयो॒ रसे॑न । सᳪ रे॒वती॒र्जग॑तीभिः पृच्यन्ता॒ᳪ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम्
devásya tvā savitúḥ prásave’śvinór bāhúbhyāṃ pūṣṇó hástābhyām | sáṃ vapāmi sám ā́pa óṣadhībhiḥ sám óṣadhayo rásena | sáṃ revátīr jágatībhiḥ pṛcyantā́ṃ sáṃ mádhumatīr mádhumatībhiḥ pṛcyantām
देव सविता के प्रसव (प्रेरण) से, अश्विनों की भुजाओं से, पूषन् के हाथों से, मैं तुझे बिखेरता और सम्यक् मिलाता हूँ। जलों के साथ मिलाकर, ओषधियों के साथ मिलाकर; और ओषधियाँ अपने रस के साथ संयुक्त हों। समृद्ध (रेवती) शक्तियाँ जगती (विस्तृत-गामी) शक्तियों के साथ मिलें; मधुमती शक्तियाँ मधुमती शक्तियों के साथ मिलें।
दे॒वस्य॑ । त्वा । सवि॒तुः । प्र॑स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॑म् । पू॒ष्णः । हस्ता॑भ्याम् । सं । व॑पामि । सम् । आपः॑ । ओष॑धीभिः । सम् । ओष॑धयः । रसे॑न । सम् । रे॒वतीः॑ । जग॑तीभिः । पृ॒च्य॒न्ताम् । सम् । मधु॑मतीः । मधु॑मतीभिः । पृ॒च्य॒न्ताम्