अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद्ग्रा॑वाऽसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व । हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑
agnés tanū́r asi vā́co visárjanam devávītaye tvā gṛhṇāmi bṛhádgrāvā asi vānaspatyáḥ sa idáṃ devébhyo havíḥ śamīṣva suśámi śamīṣva | havíṣkṛd éhi havíṣkṛd éhi
तू अग्नि का तनू (शरीर) है; तू वाणी का विसर्जन (प्रवर्तन) है। देवों की प्राप्ति हेतु मैं तुम्हें ग्रहण करता हूँ। तू बृहद्ग्रावा (महापाषाण/महाग्राव) है; तू वनस्पति-सम्बन्धी है। वही तू इस हवि को देवों के लिए शमीष्व—प्रसन्न कर; सुशमि शमीष्व—अत्यन्त प्रसन्न कर। हे हविष्कृत् (हवि-कर्ता), इधर आ; हे हविष्कृत्, इधर आ।
अग्नेः । तनूः । असि । वाचः । विसर्जनम् । देव-वीतये । त्वा । गृह्णामि । बृहत्-ग्रावाः । असि । वानस्पत्यः । सः । इदम् । देवेभ्यः । हविः । शमीष्व । सु-शमि । शमीष्व । हविष्-कृद् । एहि । हविष्-कृद् । एहि ।