Sukta 8.50
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये । यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये । यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
prá su śrutáṃ su-rā́dhasam árcā śakrám abhiṣṭáye | yáḥ sunvaté stuvaté kā́myaṃ vásu sahásreṇeva máṃhate ||
हमारी विजय-प्राप्ति और अभिष्ट-सिद्धि के लिए, सुप्रसिद्ध और सुदान (सुराधस) शक्र का स्तवन-गीत ऊँचा गाओ। जो सोम-निचोड़ने वाले और स्तुति करने वाले को, मानो सहस्र-गुणा प्रवाह से, वांछित वसु (सम्पदा) उदारतापूर्वक देता है।
प्र । सु । श्रु॒तम् । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ट॑ये । यः । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंह॑ते ॥प्र । सु । श्रुतम् । सुराधसम् । अर्च । शक्रम् । अभिष्टये । यः । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणइव । मंहते ॥pra | su | śrutam | su-rādhasam | arca | śakram | abhiṣṭaye | yaḥ | sunvate | stuvate | kāmyam | vasu | sahasreṇa-iva | maṃhate