Sukta 10.51
अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः । तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥
अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः । तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्याया॑: ॥
agnéḥ pū́rve bhrā́taro ártham etáṃ rathī́vā́dhvā́nam ánv ā́varīvur | tásmād bhiyā́ varuṇa dū́ram ā́yaṃ gaúro ná kṣépnoḥ ā́vije jyā́yāḥ ||
अग्नि के पूर्वज भ्राता इस अर्थ के पीछे ऐसे लगे, जैसे रथी मार्ग का अनुसरण करता है। इसलिए, हे वरुण, भय से मैं बहुत दूर चला गया—जैसे गौरो (वन्य वृषभ) फेंकी हुई पट्टी/चाबुक की चोट से चौंककर, अधिक बलवान की ओर भागता है।
अ॒ग्नेः । पूर्वे॑ । भ्रात॑रः । अर्थ॑म् । ए॒तम् । र॒थीऽइ॑व । अध्वा॑नम् । अनु॑ । आ । अ॒व॒री॒वु॒रिति॑ । तस्मा॑त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । आ॒वि॒जे॒ । ज्यायाः॑ ॥अग्नेः । पूर्वे । भ्रातरः । अर्थम् । एतम् । रथीइव । अध्वानम् । अनु । आ । अवरीवुरिति । तस्मात् । भिया । वरुण । दूरम् । आयम् । गौरः । न । क्षेप्नोः । आविजे । ज्यायाः ॥agneḥ | pūrve | bhrātaraḥ | artham | etam | rathī-iva | adhvānam | anu | ā | avarīvuriti | tasmāt | bhiyā | varuṇa | dūram | āyam | gauraḥ | na | kṣepnoḥ | āvije | jyāyāḥ