Sukta 10.50
अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥
अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥
avā́ nu kaṃ jyā́yāny yajñávanaso mahī́ṃ te ómātrāṃ kṛ́ṣṭayo viduḥ | áso nu kam ajáro várdhāś ca víśved etā́ sávanā tūtumā́ kṛṣe ||
अब निश्चय ही यज्ञ-समृद्ध प्रजाएँ तेरे विशाल प्रमाण और तेरी अधिकतर शक्तियों को जानती हैं। हाँ, तू अजर (अविनाशी) वृद्धि और विस्तार है; इन्हीं से तू हमारे कर्मों के लिए सोम के सब सवनों को आगे बढ़ाता है—आत्म-प्रयत्न को पूर्णता की ओर प्रेरित करता हुआ।
अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ । असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥अव । नु । कम् । ज्यायान् । यज्ञवनसः । महीम् । ते । ओमात्राम् । कृष्टयः । विदुः । असः । नु । कम् । अजरः । वर्धाः । च । विश्वा । इत् । एता । सवना । तूतुमा । कृषे ॥ava | nu | kam | jyāyān | yajña-vanasaḥ | mahīm | te | omātrām | kṛṣṭayaḥ | viduḥ | asaḥ | nu | kam | ajaraḥ | vardhāḥ | ca | viśvā | it | etā | savanā | tūtumā | kṛṣe