Sukta 10.30
आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः । अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥
आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्ती॑: । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥
ā́gmann ā́pa uśatī́r barhír édáṃ ny adhvaré asadan deva-yántīḥ | adhvaryavaḥ sunuténdrāya sómam abhū́du vaḥ su-śákā deva-yajyā́ ||
उत्सुक और सहमत आपः आ पहुँची हैं; देवों की अभिलाषा रखने वाली वे इस यज्ञ में, इसी बर्हिष्-आसन पर आकर बैठ गई हैं। हे अध्वर्युजनो, इन्द्र के लिए सोम निचोड़ो; तुम्हारी देवयज्या (देव-सेवा) शुभ-शक्ति से समर्थ हो गई है।
आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ । अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊँ॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥आ । अग्मन् । आपः । उशतीः । बर्हिः । आ । इदम् । नि । अध्वरे । असदन् । देवयन्तीः । अध्वर्यवः । सुनुत । इन्द्राय । सोमम् । अभूत् । ऊँ इति । वः । सुशका । देवयज्या ॥ā | agman | āpaḥ | uśatīḥ | barhiḥ | ā | idam | ni | adhvare | asadan | deva-yantīḥ | adhvaryavaḥ | sunuta | indrāya | somam | abhūt | oṃ iti | vaḥ | su-śakā | deva-yajyā