Sukta 10.181
तेऽविन्दन्मनसा दीध्याना यजुः ष्कन्नं प्रथमं देवयानम् । धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥
ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑: ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥
té ’vindan mánasā dīdhyā́nā yájuḥ skannáṃ prathamáṃ deva-yā́nam | dhā́tur dyutā́nāt savitúś ca víṣṇor ā́ sū́ryād abharan gharmám eté ||
दीप्त, प्रज्वलित मन से उन्होंने उस प्रथम यजुः को पाया जो गिर पड़ा था—जो देवयान पथ को खोल देता है। धातृ की दीप्ति से, सवितृ से और विष्णु से, इन्होंने सूर्य से ‘घर्म’ को धारण कर लाया—कर्म के लिए चेतन सत्य की उष्णता।
ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुतः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवयानम् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥te | avindan | manasā | dīdhyānāḥ | yajuḥ | skannam | prathamam | deva-yānam | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ā | sūryāt | abharan | gharmam | ete