Sukta 10.168
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥
आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः । घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥
ātmā́ devā́nāṁ bhúvanasya gárbho yáthāvaśaṁ carati devá eṣáḥ | ghóṣā íd asya śṛṇvire ná rū́paṁ tásmai vā́tāya havíṣā vidhema ||
यह देव देवताओं का आत्मा है, भुवन का गर्भ है; यह देव अपनी इच्छा के अनुसार विचरता है। इसकी ध्वनियाँ तो सुनाई देती हैं, रूप नहीं; उस वात (वायु-देव) के लिए हम हविष् अर्पित करें।
आ॒त्मा । दे॒वाना॑म् । भुव॑नस्य । गर्भः॑ । य॒था॒ऽव॒शम् । च॒र॒ति॒ । दे॒वः । ए॒षः । घोषाः॑ । इत् । अ॒स्य॒ । शृ॒ण्वि॒रे॒ । न । रू॒पम् । तस्मै॑ । वाता॑य । ह॒विषा॑ । वि॒धे॒म॒ ॥आत्मा । देवानाम् । भुवनस्य । गर्भः । यथावशम् । चरति । देवः । एषः । घोषाः । इत् । अस्य । शृण्विरे । न । रूपम् । तस्मै । वाताय । हविषा । विधेम ॥ātmā | devānām | bhuvanasya | garbhaḥ | yathāvaśam | carati | devaḥ | eṣaḥ | ghoṣāḥ | it | asya | śṛṇvire | na | rūpam | tasmai | vātāya | haviṣā | vidhema