Sukta 10.15
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे । मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ । मा हिं॑सिष्ट पितर॒: केन॑ चिन्नो॒ यद्व॒ आग॑: पुरु॒षता॒ करा॑म ॥
ā́cyā jánu dakṣiṇató niṣádya imáṃ yajñám abhí gṛṇīta víśve | mā́ hiṃsiṣṭa pitaraḥ kéna cin no yád va ā́gaḥ puruṣátā kárāma ||
घुटना मोड़कर, दाहिनी ओर बैठो और इस यज्ञ पर स्तुति-गान करो—हे समस्त पितर। हे पितर, किसी भी प्रकार से हमें आहत न करो; मनुष्य-सीमितता से जो भी अपराध हम कर बैठे हों, उसके कारण नहीं।
आ॒ऽअच्य॑ । जानु॑ । द॒क्षि॒ण॒तः । नि॒ऽसद्य॑ । इ॒मम् । य॒ज्ञम् । अ॒भि । गृ॒णी॒त॒ । विश्वे॑ । मा । हिं॒सि॒ष्ट॒ । पि॒त॒रः॒ । केन॑ । चि॒त् । नः॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ॥आअच्य । जानु । दक्षिणतः । निसद्य । इमम् । यज्ञम् । अभि । गृणीत । विश्वे । मा । हिंसिष्ट । पितरः । केन । चित् । नः । यत् । वः । आगः । पुरुषता । कराम ॥ācya | jānu | dakṣiṇataḥ | ni-sadya | imam | yajñam | abhi | gṛṇīta | viśve | mā | hi ṃsiṣṭa | pitaraḥ | kena | cit | naḥ | yat | vaḥ | āgaḥ | puruṣatā | karāma