Sukta 10.15
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥
ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते । तेभि॑: स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥
yé ágnidagdhā́ yé ánagnidagdhā́ mádhye diváḥ svadháyā mā́dayante | tébhiḥ svarā́ḷ ásunītim etā́ṃ yathāvaśáṃ tanvàṃ kalpayasva ||
जो अग्नि से दग्ध (शुद्ध) हुए हैं और जो अग्नि से अदग्ध हैं, जो दिवः के मध्य में स्वधा के द्वारा आनन्दित होते हैं—उनके साथ, हे स्वराज्, इस जीव के लिए असुनीति (प्राण-मार्ग) को यथावश बनाओ, और देह (तनु) को भी उसी के अनुसार विन्यस्त करो।
ये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते । तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥ये । अग्निदग्धाः । ये । अनग्निदग्धाः । मध्ये । दिवः । स्वधया । मादयन्ते । तेभिः । स्वराट् । असुनीतिम् । एताम् । यथावशम् । तन्वम् । कल्पयस्व ॥ye | agni-dagdhāḥ | ye | anagni-dagdhāḥ | madhye | divaḥ | svadhayā | mādayante | tebhiḥ | sva-rāṭ | asu-nītim | etām | yathāvaśam | tanvam | kalpayasva