Sukta 10.139
विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑: । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥
viśvā́vasur abhí tán no gṛṇātu divyó gandharvó rájaso vimā́naḥ | yád vā ghā satyám utá yán na vidmá dhíyo hinvānáḥ dhiyá ín no avyāḥ ||
रजस् (मध्यलोक) को मापने वाला दिव्य गन्धर्व विश्वावसु उस ‘तत्’ के विषय में हमें उच्चारित करे। वह सत्य हो, या वह जिसे हम अभी नहीं जानते—वह हमारी धियों को प्रेरित करता हुआ, हमारी धियों की ही रक्षा करे।
वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥विश्ववसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । विमानः । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥viśva-vasuḥ | abhi | tat | naḥ | gṛṇātu | divyaḥ | gandharvaḥ | rajasaḥ | vi-mānaḥ | yat | vā | gha | satyam | uta | yat | na | vidma | dhiyaḥ | hinvānaḥ | dhiyaḥ | it | naḥ | avyāḥ