Sukta 10.125
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥
mayā́ só ánnam atti yó vipáśyati yáḥ prā́ṇiti yá ī́m śṛṇóty uktám | amántavo mā́m ta úpa kṣiyanti śrudhí śrúta śraddhiváṃ te vadāmi ||
मेरे द्वारा ही वह सत्य-पोषक अन्न का भक्षण करता है—जो जाग्रत दृष्टि से देखता है, जो प्राण-शक्ति से श्वास लेता है, जो उच्चरित वचन को सुनता है। जो मुझे नहीं जानते, वे मेरे निकट रहते हुए भी मुझे प्राप्त नहीं करते। हे श्रोता, सुनो—सुनो; मैं तुम्हें वह वचन कहती हूँ जो श्रद्धा से धारण करने योग्य है।
मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् । अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥मया । सः । अन्नम् । अत्ति । यः । विपश्यति । यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् । अमन्तवः । माम् । ते । उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धिवम् । ते । वदामि ॥mayā | saḥ | annam | atti | yaḥ | vi-paśyati | yaḥ | prāṇiti | yaḥ | īm | śṛṇoti | uktam | amantavaḥ | mām | te | upa | kṣiyanti | śrudhi | śruta | śraddhi-vam | te | vadām i