Sukta 10.123
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥
ayaṁ vénaś codáyat pṛ́śnigarbhā́ jyótir jarāyū́ rájaso vimā́ne | imám apā́ṁ saṁgamé sū́ryasya śíśuṁ ná víprā matíbhī rihanti ||
यह वेन—पृश्निगर्भा (बहुवर्ण गर्भों) को प्रेरित करता है; जन्म-झिल्ली में लिपटा ज्योति, रजस् के विस्तृत विमान में स्थित। अपां और सूर्य के इस संगम पर, विप्र उसे अपनी मतियों से—नवजात शिशु की भाँति—स्नेहपूर्वक चाटते-पोषते हैं।
अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ । इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥अयम् । वेनः । चोदयत् । पृश्निगर्भाः । ज्योतिःजरायुः । रजसः । विमाने । इमम् । अपाम् । सम्गमे । सूर्यस्य । शिशुम् । न । विप्राः । मतिभिः । रिहन्ति ॥ayam | venaḥ | codayat | pṛśni-garbhāḥ | jyotiḥ-jarāyuḥ | rajasaḥ | vi-māne | imam | apām | sam-game | sūryasya | śiśum | na | viprāḥ | mati-bhiḥ | rihanti