Sukta 10.119
नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः । कुवित्सोमस्यापामिति ॥
न॒हि मे॑ अक्षि॒पच्च॒नाच्छा॑न्त्सु॒: पञ्च॑ कृ॒ष्टय॑: । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
náhi me akṣípat canā́cchā́ntsuḥ páñca kṛ́ṣṭayaḥ | kuvít sómasyāpā́m ití ||
पाँचों जनों में से किसी ने भी मुझे तनिक भी नहीं गिराया; वे मुझे छू तक नहीं सके। क्या यह सोम के आपः (जल) से ही यह अजेय स्थैर्य उत्पन्न होता है?
न॒हि । मे॒ । अ॒क्षि॒ऽपत् । च॒न । अच्छा॑न्त्सुः । पञ्च॑ । कृ॒ष्टयः॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥नहि । मे । अक्षिपत् । चन । अच्छान्त्सुः । पञ्च । कृष्टयः । कुवित् । सोमस्य । अपाम् । इति ॥nahi | me | akṣipat | cana | acchāntsuḥ | pañca | kṛṣṭayaḥ | kuvit | somasya | apām | iti