Sukta 1.179
न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव । जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥
न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
ná mṛ́ṣā śrā́ntaṃ yád ávanti devā́ víśvā ít spṛ́dho abhy àśnavāva | jayā́ved átra śatánītham ā́jiṃ yát samyáñcā mithunā́v abhy àjāva ||
देव यदि श्रान्त जन का अवलम्बन करते हैं, तो वह श्रम व्यर्थ नहीं होता; तब हम दोनों समस्त प्रतिद्वन्द्विताओं पर विजय पा सकते हैं। यहाँ हम उस युद्ध को—उसके शत उपायों सहित—जीतेंगे, जब युगल एक साथ, सम्यक् अग्रसर होकर, आक्रमण की ओर दबाव डालता है।
न । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ । जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥न । मृषा । श्रान्तम् । यत् । अवन्ति । देवाः । विश्वाः । इत् । स्पृधः । अभि । अश्नवाव । जयाव । इत् । अत्र । शतनीथम् । आजिम् । यत् । सम्यञ्चा । मिथुनौ । अभि । अजाव ॥na | mṛṣā | śrāntam | yat | avanti | devāḥ | viśvāḥ | it | spṛdhaḥ | abhi | aśnavāva | jayāva | it | atra | śata-nītham | ājim | yat | samyañcā | mithunau | abhi | ajāva