Sukta 1.168
क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय । यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥
क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य । यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥
kvà svid asyá rájaso mahás paráṃ kvā́varaṃ maruto yásminnāyáya | yác cyāváyatha vithurá iva sáṃhitaṃ vy àdriṇā patatha tvéṣam arṇavám ||
इस विशाल रजस् (मध्यलोक) का परला तट कहाँ है, और निकट की सीमा कहाँ—हे मरुतो—जिसमें तुम विचरते हो? जब तुम सघन होकर जमे हुए को थरथराते हुए ढीला कर देते हो, तब तुम अश्म-आयुध के साथ उस दहकते अर्णव को चीरते हुए उड़ पड़ते हो—अवरोधक पिण्ड को फोड़कर प्राण के अग्रगमन का पथ खोलते हुए।
क्व॑ । स्वि॒त् । अ॒स्य । रज॑सः । म॒हः । पर॑म् । क्व॑ । अव॑रम् । म॒रु॒तः॒ । यस्मि॑न् । आ॒ऽय॒य । यत् । च्य॒वय॑थ । वि॒थु॒राऽइ॑व । सम्ऽहि॑तम् । वि । अद्रि॑णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥क्व । स्वित् । अस्य । रजसः । महः । परम् । क्व । अवरम् । मरुतः । यस्मिन् । आयय । यत् । च्यवयथ । विथुराइव । सम्हितम् । वि । अद्रिणा । पतथ । त्वेषम् । अर्णवम् ॥kva | svit | asya | rajasaḥ | mahaḥ | param | kva | avaram | marutaḥ | yasmin | āyaya | yat | cyavayatha | vithurāiva | sam-hitam | vi | adriṇā | patatha | tveṣam | arṇavam