Sukta 1.164
माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे । सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥
mātā́ pitáram ṛté ā́ babhāja dhītī́ ágre mánasā sáṃ hí jagme | sā́ bī́bhatsur gárbha-rasā́ ní-viddhā námasvanta íd upa-vākám īyuḥ ||
माता ने ऋत (सत्य-व्यवस्था) का उल्लंघन किए बिना पिता को अपने में बाँट लिया; आदि में धीत (रचनात्मक दृष्टि) मन के साथ ही संयोग को प्राप्त हुई। वह—भीषण-तेजस्विनी, गर्भ-रस से परिपूर्ण, दृढ़-स्थापित—उसके निकट वाक् के उपवाक (निकट उच्चारण) तक नमस्कार-युक्त जन पहुँचे।
मा॒ता । पि॒तर॑म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे॑ । मन॑सा । सम् । हि । ज॒ग्मे । सा । बी॒भ॒त्सुः । गर्भ॑ऽरसा । निऽवि॑द्धा । नम॑स्वन्तः । इत् । उ॒प॒ऽवा॒कम् । ई॒युः॒ ॥माता । पितरम् । ऋते । आ । बभाज । धीती । अग्रे । मनसा । सम् । हि । जग्मे । सा । बीभत्सुः । गर्भरसा । निविद्धा । नमस्वन्तः । इत् । उपवाकम् । ईयुः ॥mātā | pitaram | ṛte | ā | babhāja | dhītī | agre | manasā | sam | hi | jagme | sā | bībhatsuḥ | garbha-rasā | ni-viddhā | namasvantaḥ | it | upa-vākam | īyuḥ