Sukta 1.164
सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥
सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
sanémi cákram ajáraṁ ví vāvṛta uttānā́yāṁ dáśa yuktā́ vahanti | sū́ryasya cákṣū rájasā́ity ā́vṛtaṁ tásminn ārpitā́ bhúvanāni víśvā ||
अजर परिधि वाला वह चक्र खुलकर घूमता है; विस्तृत धरातल पर जुते हुए दस बल उसे वहन करते हैं। सूर्य का नेत्र रजस् (दीप्तिमान अन्तरिक्ष) से आवृत होकर चलता है; उसी में समस्त भुवन दृढ़तापूर्वक प्रतिष्ठित हैं।
सऽने॑मि । च॒क्रम् । अ॒जर॑म् । वि । व॒वृ॒ते॒ । उ॒त्ता॒नाया॑म् । दश॑ । यु॒क्ताः । व॒ह॒न्ति॒ । सूर्य॑स्य । चक्षिः॑ । रज॑सा । ए॒ति॒ । आऽवृ॑तम् । तस्मि॑न् । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥सनेमि । चक्रम् । अजरम् । वि । ववृते । उत्तानायाम् । दश । युक्ताः । वहन्ति । सूर्यस्य । चक्षिः । रजसा । एति । आवृतम् । तस्मिन् । आर्पिता । भुवनानि । विश्वा ॥sa-nemi | cakram | ajaram | vi | vavṛte | uttānāyām | daśa | yuktāḥ | vahanti | sūryasya | cakṣiḥ | rajasā | eti | āvṛtam | tasmin | ārpitā | bhuvanāni | viśvā