Sukta 1.138
प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते । अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् । विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते । अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् । विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥
prá-prá pūṣṇás tuvi-jā́tasya śasyate mahitvám asya távaso ná tandate stotrám asya ná tandate | árcāmi sumnayán ahám ánty-ūtíṃ mayó-bhuvam | víśvasya yó mánā āyuyuvé mákho devá āyuyuvé mákhaḥ ||
बार-बार महाबल से जन्मे पूषन् की महिमा गाई जाती है; उसकी शक्ति थकती नहीं, उसका स्तोत्र थकता नहीं। मैं अनुग्रह की कामना से, निकट सहायक—आनन्द-प्रद—का गान करता हूँ; जो समस्त का मन यज्ञ की ओर जुताता है—वह देव, वह मख (यज्ञ-बल/सिद्धि) की ओर जुताता है।
प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ । अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् । विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥प्रप्र । पूष्णः । तुविजातस्य । शस्यते । महित्वम् । अस्य । तवसः । न । तन्दते । स्तोत्रम् । अस्य । न । तन्दते । अर्चामि । सुम्नयन् । अहम् । अन्तिऊतिम् । मयःभुवम् । विश्वस्य । यः । मनः । आयुयुवे । मखः । देवः । आयुयुवे । मखः ॥pra-pra | pūṣṇaḥ | tuvi-jātasya | śasyate | mahi-tvam | asya | tavasaḥ | na | tandate | stotram | asya | na | tandate | arcāmi | sumna-yan | aham | anti-ūtim | mayaḥ-bhuvam | viśvasya | yaḥ | manaḥ | āyuyuve | makhaḥ | devaḥ | āyuyuve | makhaḥ