Sukta 1.135
स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते । तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥
स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते । तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे । प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥
stīrṇaṃ barhir upa no yāhi vītáye sahásreṇa ni-yútā niyutváte śatínībhiḥ niyutváte | túbhyaṃ hí pūrva-pītáye devā́ devā́ya yemiré | prá te sutā́so mádhu-manto asthiran mադā́ya krátve asthiran ||
बिछा हुआ बर्हि (यज्ञासन) है; हे वायु! हमारे पास आ, जागरण-यज्ञ के पान हेतु—हज़ार नियुतों से युक्त, सैकड़ों शीघ्र नियुतों से युक्त। क्योंकि प्रथमपायी तुझी के लिए देवों ने देव के लिए हवि सजाई है। तेरे लिए मधुमय सुत सोम-रस प्रवाहित किए गए हैं—मद के लिए, क्रतु (यज्ञ-शक्ति) के लिए प्रवाहित किए गए हैं।
स्ती॒र्णम् । ब॒र्हिः । उप॑ । नः॒ । या॒हि॒ । वी॒तये॑ । स॒हस्रे॑ण । नि॒ऽयुता॑ । नि॒यु॒त्व॒ते॒ । श॒तिनी॑भिः । नि॒यु॒त्व॒ते॒ । तुभ्य॑म् । हि । पू॒र्वऽपी॑तये । दे॒वाः । दे॒वाय॑ । ये॒मि॒रे । प्र । ते॒ । सु॒तासः॑ । मधु॑ऽमन्तः । अ॒स्थि॒र॒न् । मदा॑य । क्रत्वे॑ । अ॒स्थि॒र॒न् ॥स्तीर्णम् । बर्हिः । उप । नः । याहि । वीतये । सहस्रेण । नियुता । नियुत्वते । शतिनीभिः । नियुत्वते । तुभ्यम् । हि । पूर्वपीतये । देवाः । देवाय । येमिरे । प्र । ते । सुतासः । मधुमन्तः । अस्थिरन् । मदाय । क्रत्वे । अस्थिरन् ॥stīrṇam | barhiḥ | upa | naḥ | yāhi | vītaye | sahasreṇa | ni-yutā | niyutvate | śatinībhiḥ | niyutvate | tubhyam | hi | pūrva-pītaye | devāḥ | devāya | yemire | pra | te | sutāsaḥ | madhu-mantaḥ | asthiran | madāya | kratve | asthiran