Sukta 1.123
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य । परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥
अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒: सूर्य॑स्य । परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षास॑: ॥
áśvāvātīr gómatīr viśvá-vārā yátamānā raśmíbhíḥ sū́ryasya | párā ca yánti púnar ā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ ||
अश्वसम्पन्न, गोसम्पन्न, सर्व वांछित वरों को धारण करने वाली, सूर्य की रश्मियों के साथ प्रयत्नशील—उषाएँ आगे जाती हैं और फिर लौट आती हैं। ‘भद्रा’ नाम को वहन करती हुई, वे हमारे क्षेत्र में शीघ्र बल और ज्योतिर्मय ज्ञान की शक्तियाँ पुनः ले आती हैं।
अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य । परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥अश्ववतीः । गोमतीः । विश्ववाराः । यतमानाः । रश्मिभिः । सूर्यस्य । परा । च । यन्ति । पुनः । आ । च । यन्ति । भद्रा । नाम । वहमानाः । उषसः ॥aśva-vatīḥ | go--matīḥ | viśva-vārāḥ | yatamānāḥ | raśmi-bhiḥ | sūryasya | parā | ca | yanti | punaḥ | ā | ca | yanti | bhadrā | nāma | vahamānāḥ | uṣasaḥ