Sukta 1.109
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति । तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥
यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येन्द्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति । ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ॥
yuvā́bhyāṃ devī́ dhiṣáṇā madā́ya indrā́gnī sómam uśatī́ sunoti | tā́v aśvinā bhadráhastā supāṇī́ ā́ dhāvatam mádhunā pṛ́ṅktam apsú ||
हे इन्द्राग्नी, मद के लिए इच्छुक देवी धिषणा तुम्हारे लिए सोम को निचोड़ती है। और हे अश्विनौ—भद्रहस्त, सुपाणी—तुम दौड़कर यहाँ आओ और उसे मधु के साथ जलों में मिला दो।
यु॒वाभ्या॑म् । दे॒वी । धि॒षणा॑ । मदा॑य । इन्द्रा॑ग्नी॒ इति॑ । सोम॑म् । उ॒श॒ती । सु॒नो॒ति॒ । तौ । अ॒श्वि॒ना॒ । भ॒द्र॒ऽह॒स्ता॒ । सु॒पा॒णी॒ इति॑ सुऽपाणी । आ । धा॒व॒त॒म् । मधु॑ना । पृ॒ङ्क्तम् । अ॒प्ऽसु ॥युवाभ्याम् । देवी । धिषणा । मदाय । इन्द्राग्नी इति । सोमम् । उशती । सुनोति । तौ । अश्विना । भद्रहस्ता । सुपाणी इति सुपाणी । आ । धावतम् । मधुना । पृङ्क्तम् । अप्सु ॥yuvābhyām | devī | dhiṣaṇā | madāya | indrāgnī iti | somam | uśatī | sunoti | tau | aśvinā | bhadra-hastā | supāṇī itisu-pāṇī | ā | dhāvatam | madhunā | pṛṅktam | ap-su