Tripura
नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥२॥
नव-योनिः । नव-चक्राणि । दधिरे । नव-एव । योगाः । नव । योगिन्यः । च । नवानाम् । चक्राः । अधि-नाथाः । स्योनाः । नव । मुद्रा । नव । भद्राः । महीनाम् ॥२॥
navayoniḥ navacakrāṇi dadhire navaiva yogā nava yoginyaś ca | navānāṃ cakrā adhināthāḥ syonā nava mudrā nava bhadrā mahīnām ||2||
નવયોનિએ નવ ચક્રો ધારણ કર્યા; નવ યોગો છે અને નવ યોગિનીઓ પણ। નવ ચક્રોના અધિનાથો શુભ નિવાસરૂપ છે; નવ મુદ્રાઓ છે અને ભૂમિઓના નવ કલ્યાણકારી શક્તિરૂપ ભદ્ર તત્ત્વો છે॥૨॥
The ninefold womb (source) has borne nine wheels; nine indeed are the yogas, and nine the yoginīs. Of the nine, the wheels have presiding lords, auspicious abodes; nine are the seals (mudrās), nine the beneficent (powers) of the worlds.