Mundaka
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥९॥
एषः । अणुः । आत्मा । चेतसा । वेदितव्यः । यस्मिन् । प्राणः । पञ्चधा । संविवेश । प्राणैः । चित्तम् । सर्वम् । ओतम् । प्रजानाम् । यस्मिन् । विशुद्धे । विभवति । एषः । आत्मा ।
eṣo ’ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa | prāṇaiś cittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavaty eṣa ātmā ||9||
આ અણુ આત્મા ચેતસાથી જાણવાનો છે; જેમાં પ્રાણ પંચધા રૂપે પ્રવેશ્યો છે. પ્રાણોથી પ્રજાઓનું સર્વ ચિત્ત ઓતપ્રોત (સૂત્રીત) છે; તે આંતરિક તત્ત્વ શુદ્ધ થતાં આ આત્મા પ્રગટ થઈ પ્રકાશે છે.
This subtle Self is to be known by the mind (cetas); in it the vital breath enters in fivefold form. By the vital breaths the entire mind of creatures is woven (pervaded/strung); in that purified (inner) [principle] this Self becomes manifest (shines forth).