Kaivalya
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥
त्रिषु । धामसु । यत्-भोग्यम् । भोक्ता । भोगः । च । यत् । भवेत् ।
तेभ्यः । विलक्षणः । साक्षी । चित्-मात्रः । अहम् । सदाशिवः ।
मयि । एव । सकलम् । जातम् । मयि । सर्वम् । प्रतिष्ठितम् ।
मयि । सर्वम् । लयम् । याति । तत् । ब्रह्म । अद्वयम् । अस्मि । अहम् ।
triṣu dhāmasu yadbhogyaṃ bhoktā bhogaś ca yadbhavet |
tebhyo vilakṣaṇaḥ sākṣī cinmātro ’haṃ sadāśivaḥ ||
mayy eva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam |
mayi sarvaṃ layaṃ yāti tad brahmādvayam asmy aham ||
ત્રણે ધામોમાં (જાગ્રત્-સ્વપ્ન-સુષુપ્તિ) જે ભોગ્ય, ભોક્તા અને ભોગ રૂપે દેખાય છે, તે બધાથી હું વિલક્ષણ છું—સાક્ષી, ચિન્માત્ર; હું સદાશિવ છું। મારામાં જ સર્વનું જન્મ થાય છે; મારામાં સર્વ પ્રતિષ્ઠિત છે; મારામાં જ સર્વ લય પામે છે। હું તે અદ્વિતીય બ્રહ્મ છું।
Whatever may be the object of enjoyment, the enjoyer, and the enjoyment in the three abodes (states)—from them I am distinct: the Witness, pure consciousness; I am Sadāśiva. In me alone all this is born; in me all is established; in me all goes to dissolution. I am that non-dual Brahman.