Brahmavidya
पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः । वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥३७॥
पुष्प-वत् । सकलम् । विद्यात् । गन्धः । तस्य । तु । निष्कलः । वृक्षः । तु । सकलम् । विद्यात् । छाया । तस्य । तु । निष्कला ॥३७॥
puṣpavat sakalaṃ vidyād gandhas tasya tu niṣkalaḥ | vṛkṣas tu sakalaṃ vidyāc chāyā tasya tu niṣkalā ||37||
સકલ (અંગવાળો) ભાવને પુષ્પ સમાન જાણવો; પરંતુ તેનો ગંધ નિષ્કલ (અંગરહિત) છે. સકલને વૃક્ષ સમાન જાણવો; પરંતુ તેની છાયા નિષ્કલ જ છે.
One should know the ‘with-parts’ (sakala) as like a flower; but its fragrance is indeed ‘partless’ (niṣkala). One should know the ‘with-parts’ as like a tree; but its shade is indeed partless.