ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाᳪसो॑ दा॒शुष॑: सु॒तम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑:
ómāsaś carṣaṇīdhṛto víśve devāsa ā́ gata | dā́śvāṃso dā́śuṣaḥ sutám | upayā́ma-gṛhīto’si víśvebhyas tvā devébhya eṣá te yónir víśvebhyas tvā devébhyaḥ
હે ઓમાસ (સહાયક), ચર્ષણીધૃત (માનવજાતિના આધાર), સર્વ દેવો, અહીં આવો; દાનશીલ યજમાનના સુત (પિષિત) સોમને (સ્વીકારો). ઉપયામથી ગ્રહિત તું છે; સર્વ દેવો માટે તને! આ તારો યોનિ છે; સર્વ દેવો માટે તને!
ओमासः । चर्षणी-धृतः । विश्वे । देवासः । आ । गत । दाश्वांसः । दाशुषः । सुतम् । उप-याम-गृहीतः । असि । विश्वेभ्यः । त्वा । देवेभ्यः । एषः । ते । योनिः । विश्वेभ्यः । त्वा । देवेभ्यः