त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः
tvám agne prathamó aṅgirā́ ṛ́ṣir devó devā́nām abhavaḥ śiváḥ sákhā | táva vraté kaváyo vidmánā́paso ’jāyanta marúto bhrā́jadṛṣṭayaḥ ||
હે અગ્નિ, તું પ્રથમ અઙ્ગિરસ, ઋષિ અને દેવ હતો; તું દેવોમાં શુભ સખા બન્યો. તારા વ્રત (આદેશ) હેઠળ કવિઓ જ્ઞાન અને પરિશ્રમથી મરુતોને જનમાવ્યા—તેજસ્વી ભાલાવાળા.
त्वम् । अग्ने । प्रथमः । अङ्गिराः । ऋषिः । देवः । देवानाम् । अभवः । शिवः । सखा । तव । व्रते । कवयः । विद्मना । अपसः । अजायन्त । मरुतः । भ्राजत्-दृष्टयः ।