सं॒व॒त्स॒रो॒ऽसि परिवत्स॒रो॒ऽसीदावत्स॒रो॒ऽसीद्वत्स॒रो॒ऽसि वत्स॒रो॒ऽसि । उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्धमा॒सास्ते॑ कल्पन्तां मा॒सास्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ताᳪ संवत्स॒रस्ते॑ कल्पताम् । प्रेत्या॒ एत्यै॒ सं चाञ्च॒ प्र च॑ सारय । सुप॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒व: सी॑द
saṁvatsaró ’si parivatsaró ’sīdāvatsaró ’sīdvátsaró ’si vatsaró ’si | uṣásaḥ te kalpantām ahorātrā́s te kalpantām ardhamāsā́s te kalpantāṁ mā́sās te kalpantām ṛtávaḥ te kalpantāṁ saṁvatsarás te kalpatām | prétyā́ étyai sám cā́ñca prá ca sā́raya | supárṇacid asi táyā devátayā ’ṅgirasvád dhruváḥ sīda
તું સંવત્સર છે; તું પરિવત્સર છે; તું ઈદાવત્સર છે; તું ઈદ્વત્સર છે; તું વત્સર છે—હા, તું વત્સર છે. તને અનુરૂપ ઉષાઓ ગોઠવાય; તને અનુરૂપ અહોરાત્રો ગોઠવાય; તને અનુરૂપ અર્ધમાસો ગોઠવાય; તને અનુરૂપ માસો ગોઠવાય; તને અનુરૂપ ઋતુઓ ગોઠવાય; તને અનુરૂપ સંવત્સર ગોઠવાય. આગળ જઈ, આગળ આવી, એકત્ર પણ કર અને આગળ પણ પ્રસરાવ. તું સુપર્ણ પણ છે; તે દેવતા દ્વારા, અઙ્ગિરસ્વત, ધ્રુવ બની બેસ.
संवत्सरः असि । परिवत्सरः असि । इदावत्सरः असि । इद्वत्सरः असि । वत्सरः असि । वत्सरः असि । उषसः ते कल्पन्ताम् । अहोरात्राः ते कल्पन्ताम् । अर्धमासाः ते कल्पन्ताम् । मासाः ते कल्पन्ताम् । ऋतवः ते कल्पन्ताम् । संवत्सरः ते कल्पताम् । प्र-इत्य । एत्यै । सम् च । अञ्च । प्र च । सारय । सुपर्ण-चित् असि । तया देवतया । अङ्गिरस्वत् । ध्रुवः । सीद