मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ᳪ सन्त्वा॒शिष॑: स॒त्या न॑: सन्त्वा॒शिष॒ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑
máyī́dám índra indriyáṃ dadhātv asmā́n rā́yo maghávānaḥ sacantām | asmā́kaṃ santu āśíṣaḥ satyā́ naḥ santu āśíṣa úpahūtāḥ pṛthivī́ mātópa mā́ṃ pṛthivī́ mātā́ hvayatām agnír āgnī́dhrāt svā́hā |
ઇન્દ્ર આ ઇન્દ્રિય (વીર્ય) મને સ્થાપે; અને મઘવાન્ (ઉદાર) ધન-સંપત્તિઓ અમને જોડાય. અમારી આશિષો સત્ય રહે; અમારી આશિષો સત્ય રહે. અહીં આહ્વાન કરાયેલી માતા પૃથ્વી મારી પાસે આવે; માતા પૃથ્વી મને બોલાવે. અગ્નીધ્રના સ્થાનથી—સ્વાહા।
मयि । इदम् । इन्द्रः । इन्द्रियम् । दधातु । अस्मान् । रायः । मघवानः । सचन्ताम् । अस्माकम् । सन्तु । आशिषः । सत्याः । नः । सन्तु । आशिषः । उपहूताः । पृथिवी । माता । उप । माम् । पृथिवी । माता । ह्वयताम् । अग्निः । आ । अग्नीध्रात् । स्वाहा ।