Naadbindu
अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते । देहस्यापि प्रपञ्चत्वात् प्रारब्धावस्थितिः कृतः ॥
अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते । ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥
ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः । स्वयमाविर्भवेदात्मा मेघापायेऽंशुमानिव ॥२८–३०॥
अधिष्ठाने । तथा । ज्ञाते । प्रपञ्चे । शून्यताम् । गते । देहस्य । अपि । प्रपञ्चत्वात् । प्रारब्ध-अवस्थितिः । कृतः ॥
अज्ञान-जन-बोध-अर्थम् । प्रारब्धम् । इति । च । उच्यते । ततः । काल-वशात् । एव । प्रारब्धे । तु । क्षयम् । गते ॥
ब्रह्म । प्रणव । सन्धानम् । नादः । ज्योतिर्मयः । शिवः । स्वयम् । आविर्भवेत् । आत्मा । मेघ-अपाये । अंशुमान् । इव ॥
adhiṣṭhāne tathā jñāte prapañce śūnyatāṃ gate | dehasyāpi prapañcatvāt prārabdhāvasthitiḥ kṛtaḥ ||
ajñānajanabodhārthaṃ prārabdham iti cocyate | tataḥ kālavaśād eva prārabdhe tu kṣayaṃ gate ||
brahmapraṇavasandhānaṃ nādo jyotirmayaḥ śivaḥ | svayam āvirbhaved ātmā meghāpāye ’ṃśumān iva ||
Quand le substrat est connu, le monde phénoménal est rendu vide en tant que réalité contraignante. Comme le corps est lui aussi phénoménal, on pose la persistance du prārabdha. On l’appelle “prārabdha” pour instruire ceux qui naissent dans l’ignorance. Puis, par le temps seul, lorsque le prārabdha s’éteint, par le lien de Brahman avec la syllabe Oṃ, s’élève le nāda lumineux et de bon augure ; le Soi se manifeste de lui-même, comme le soleil lorsque les nuages se dissipent.
When the substratum is known, the phenomenal world is rendered void (as a binding reality). Since the body too is phenomenal, the persistence of prārabdha is posited. It is termed ‘prārabdha’ for instructing those born in ignorance. Then, by time alone, when prārabdha is exhausted, through the linkage of Brahman with the syllable Oṃ, the luminous and auspicious nāda arises; the Self manifests by itself, like the sun at the clearing of clouds.