Naadbindu
प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते । भरते वर्षराजासौ सार्वभौमः प्रजायते ॥१२॥
प्रथमायाम् । तु । मात्रायाम् । यदि । प्राणैः । वियुज्यते । भरते । वर्ष-राजः । असौ । सार्व-भौमः । प्रजायते ॥
prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate | bharate varṣarājāsau sārvabhaumaḥ prajāyate ||12||
Si, dans la première mātrā, l’on se sépare des souffles vitaux prāṇa (c’est-à-dire que l’on meurt), on renaît en Bhārata comme roi du pays, souverain universel.
If, in the first mātrā, one becomes separated from the vital breaths (i.e., dies), that person is born in Bhārata as a king of the land, a universal sovereign.