Katharudra
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः । मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा । अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते ॥ तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते । अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥ तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ॥
प्रत्यक्-आत्मतया । भाति । ज्ञानात् । वेदान्त-वाक्य-जात् ॥ शुद्धम् । ईश्वर-चैतन्यम् । जीव-चैतन्यम् । एव । च । प्रमाता । च । प्रमाणम् । च । प्रमेयम् । च । फलम् । तथा ॥ इति । सप्त-विधम् । प्रोक्तम् । भिद्यते । व्यवहारतः ॥ माया-उपाधि-विनिर्मुक्तम् । शुद्धम् । इति । अभिधीयते ॥ माया-सम्बन्धतः । च । ईशः । जीवः । अविद्या-वशः । तथा ॥ अन्तःकरण-सम्बन्धात् । प्रमाता । इति । अभिधीयते ॥ तथा । तत्-वृत्ति-सम्बन्धात् । प्रमाणम् । इति । कथ्यते ॥ अज्ञातम् । अपि । चैतन्यम् । प्रमेयम् । इति । कथ्यते ॥ तथा । ज्ञातम् । च । चैतन्यम् । फलम् । इति । अभिधीयते ॥
pratyagātmatayā bhāti jñānād vedāntavākyajāt || śuddham īśvaracaitanyaṃ jīvacaitanyam eva ca | pramātā ca pramāṇaṃ ca prameyaṃ ca phalaṃ tathā || iti saptavidhaṃ proktaṃ bhidyate vyavahārataḥ | māyopādhivinirmuktaṃ śuddham ity abhidhīyate || māyāsambandhataś ceśo jīvo'vidyāvaśas tathā | antaḥkaraṇasambandhāt pramātety abhidhīyate || tathā tadvṛttisambandhāt pramāṇam iti kathyate | ajñātam api caitanyaṃ prameyam iti kathyate || tathā jñātaṃ ca caitanyaṃ phalam ity abhidhīyate ||
A partir del conocimiento que surge del conjunto de sentencias del Vedānta, ello brilla como el Sí mismo interior. (Se habla de ello como) ‘puro’: la conciencia de Īśvara y también la conciencia del jīva; y como el conocedor, el medio de conocimiento, el objeto de conocimiento y asimismo el resultado. Así se dice que es séptuple, diferenciándose sólo en el plano del trato empírico. Lo que está libre del upādhi (adjunto limitante) de māyā se denomina ‘puro’. Por relación con māyā se llama Īśvara; y el jīva se llama así por estar bajo el dominio de avidyā. Por relación con el antahkaraṇa (instrumento interno) se le llama ‘conocedor’; por relación con la vṛtti (modificación mental) se le llama ‘medio de conocimiento’. La Conciencia, aunque no conocida, se llama ‘objeto de conocimiento’; y la Conciencia, cuando es conocida, se llama ‘resultado’.
From the knowledge arising from the collection of Vedānta statements, it shines as the inner Self. (It is spoken of as) pure—namely, the consciousness of Īśvara and also the consciousness of the jīva; and as the knower, the means of knowledge, the object of knowledge, and likewise the result. Thus it is said to be sevenfold, differentiated only in empirical transaction. That which is free from the limiting adjunct of māyā is called ‘pure’. Through relation with māyā, (it is called) Īśvara; and the jīva is (so called) as being under the control of avidyā. Through relation with the inner instrument it is termed ‘knower’; through relation with its mental modification it is called ‘means of knowledge’. Consciousness, though unknown, is called ‘object of knowledge’; and consciousness, when known, is called ‘result’.