दे॒वान्दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॒न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु पि॒तॄन्पृ॑थि॒वीम॑गन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्ञस्ततो॑ मे भ॒द्रंम॑भूत्
devā́n dívam agan yajñás tató mā dráviṇam aṣṭu manuṣyā́n antárikṣam agan yajñás tató mā dráviṇam aṣṭu pitṝ́n pṛthivī́m agan yajñás tató mā dráviṇam aṣṭu yáṃ káṃ ca lokám agan yajñás tató me bhadrám abhūt
A los Dioses, al cielo, ha ido el Sacrificio; de allí que me llegue la riqueza. A los hombres, al espacio intermedio, ha ido el Sacrificio; de allí que me llegue la riqueza. A los Padres, a la tierra, ha ido el Sacrificio; de allí que me llegue la riqueza. A cualquier mundo que haya ido el Sacrificio—de allí que me venga el bien.
देवान् । दिवम् । अगन् । यज्ञः । ततः । मा । द्रविणम् । अष्टु । मनुष्यान् । अन्तरिक्षम् । अगन् । यज्ञः । ततः । मा । द्रविणम् । अष्टु । पितॄन् । पृथिवीम् । अगन् । यज्ञः । ततः । मा । द्रविणम् । अष्टु । यम् । कम् । च । लोकम् । अगन् । यज्ञः । ततः । मे । भद्रम् । अभूत् ।