अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒२ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनि॒ः सूर्या॑य त्वा भ्रा॒जाय॑ । सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम्
ádṛśram asya ketávo ví raśmáyo janā́ṁ2 ánu | bhrā́janto agnáyo yáthā | upayā́magṛhīto ’si sū́ryāya tvā bhrā́jāya eṣá te yóniḥ sū́ryāya tvā bhrā́jāya | sū́rya bhrājiṣṭha bhrājiṣṭhas tvaṁ devéṣv asi bhrājiṣṭho ’háṁ manuṣyéṣu bhūyāsam
Se han visto sus señales; sus rayos siguen a los pueblos, brillando como fuegos. Tomado con el Upayāma, eres para Sūrya, para el esplendor: éste es tu seno; para Sūrya, para el esplendor. Oh Sūrya, el más espléndido eres entre los dioses; que yo sea el más espléndido entre los hombres.
अदृश्रम् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु । भ्राजन्तः । अग्नयः । यथा । उप-याम-गृहीतः । असि । सूर्याय । त्वा । भ्राजाय । एषः । ते । योनिः । सूर्याय । त्वा । भ्राजाय । सूर्य । भ्राजिष्ठ । भ्राजिष्ठः । त्वम् । देवेषु । असि । भ्राजिष्ठः । अहम् । मनुष्येषु । भूयासम्