एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह । यथा॒ऽयं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑ति । ए॒वा॒यं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह
éjatu daśamāsyo gárbho jarāyuṇā sahá | yáthā ’yáṃ vāyúr éjati yáthā samudrá éjati | evāyáṃ daśamāsyo ásraj jarāyuṇā sahá
Que se agite el feto de diez meses junto con la placenta. Como este Vāyu (Viento) se agita, como el Océano se agita, así nazca este de diez meses: junto con la placenta y con la sangre.
एजतु । दश-मास्यः । गर्भः । जरायुणा । सह । यथा । अयम् । वायुः । एजति । यथा । समुद्रः । एजति । एव । अयम् । दश-मास्यः । अस्रक् । जरायुणा । सह ।