यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे । तेनास्मै॒ यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः
yát te soma diví jyótiḥ yát pṛthivyā́m yád urā́v antárikṣe | ténāsmái yájamānāyorú rāyé kṛdhy ádhi dātré vócaḥ ||
La luz tuya, oh Soma, que está en el cielo, la que está en la tierra, la que está en el ancho espacio intermedio—con ella establece para este Yajamāna una riqueza abundante; declárala como don puesto sobre el dador.
यत् । ते॒ । सोम॒ । दि॒वि । ज्योतिः॑ । यत् । पृ॒थि॒व्याम् । यत् । उ॒रौ । अ॒न्तरि॑क्षे । तेन॑ । अ॒स्मै॒ । यज॑मानाय । उ॒रु । रा॒ये । कृ॒धि । अधि॑ । दा॒त्रे । वो॒चः ।