माऽपो मौ॑षधीर्हिᳪसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च । सुमि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः
mā́'po mā́uṣadhīr hiṃsīr dhā́mno dhāmno rājan táto varuṇa no muñca | yadā́hur aghnyā́ íti váruṇéti śapāmahe táto varuṇa no muñca | sumitriyā́ na ā́pa oṣádḥayaḥ santu durmitriyā́s tásmai santu yó'smān dvéṣṭi yáṃ ca vayáṃ dvíṣmaḥ
No dañes las Aguas, no dañes las Plantas. Desde cada morada, oh rey, desde allí, oh Varuṇa, líbranos. Cualquier (falta) que incurramos cuando los hombres dicen «aghnīyā» y nosotros, invocando a Varuṇa, pronunciamos una imprecación, desde allí, oh Varuṇa, líbranos. Sean amigas para nosotros las Aguas, amigas sean las Plantas; pero sean hostiles para aquel que nos odia, y para aquel a quien odiamos.
मा । आपः । मा । ओषधीः । हिंसीः । धाम्नः धाम्नः । राजन् । ततः । वरुण । नः । मुञ्च । यदा । आहुः । अघ्न्याः । इति । वरुण । इति । शपामहे । ततः । वरुण । नः । मुञ्च । सु-मित्रियाः । नः । आपः । ओषधयः । सन्तु । दुर्मित्रियाः । तस्मै । सन्तु । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः