सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिण॒न्वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रᳪह्या॑ ऊ॒ष्मणो॑ व्यथिष॒त् प्रयु॑तं॒ द्वेष॑ः
saṃ te mā́no manásā saṃ prāṇáḥ prāṇéna gacchatām | reḍásy agnís tvā śrīṇātv ā́pas tvā sám ariṇan vā́tasya tvā dhrā́jyai pū́ṣṇo raṃhyā́ ūṣmáṇo vyathiṣát práyutaṃ dvéṣaḥ
Que tu mente se armonice con la mente; que el aliento vaya con el aliento en concordia. Que Agni, de poder rojo, te temple debidamente; que las Aguas te compacten; para el Viento que él te disponga en el orden justo; para la senda veloz de Pūṣan que él te apresure: el calor ha sacudido la enemistad alineada.
सम् । ते । मनः । मनसा । सम् । प्राणः । प्राणेन । गच्छताम् । रेडस्य । अग्निः । त्वा । श्रीणातु । आपः । त्वा । सम्-अरिणन् । वातस्य । त्वा । ध्राज्यै । पूष्णः । रंह्याः । ऊष्मणः । व्यथिषत् । प्रयुतम् । द्वेषः