अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ । अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑:
ádityās tvā mūrdhánn ā́jigharmi devayájané pṛthivyā́ iḍā́yāspadám asi ghṛtávát svā́hā | asmē ramasvāsmē te bándhus tvē rā́yo mē rā́yo mā vayáṃ rāyás póṣeṇa víyauṣma totó rā́yaḥ
Con el poder de Aditi te unjo en la coronilla, en el lugar del sacrificio sobre la tierra: eres el asiento de Iḍā, rico en ghee — Svāhā. Permanece con nosotros; con nosotros sea tu vínculo de parentesco; en ti haya riqueza para mí. Que no seamos apartados de la riqueza y del aumento de la riqueza; que haya, siempre, riqueza.
अदित्याः । त्वा । मूर्धन् । आजिघर्मि । देव-यजने । पृथिव्याः । इडायाः । पदम् । असि । घृत-वत् । स्वाहा । अस्मे । रमस्व । अस्मे । ते । बन्धुः । त्वे । रायः । मे । रायः । मा । वयम् । रायः-पोषेण । वि-यौष्म । तोतः । रायः ।