पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ᳪ समा॑म् । त्विष॑: सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः । इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ उप॑हूत॒ उप॑हूतस्य भक्षयामि
páyaso réta ā́bhṛtaṃ tásya dóham aśīmahý úttarām-uttarā́ṃ sámām | tvíṣaḥ saṃvṛ́k krátve dákṣasya te suṣúmṇasya te suṣumnāgnihutáḥ | índrapītasya prajā́patibhakṣitasya mádhumata úpahūta úpahūtasya bhakṣayāmi
La semilla de la leche, traída aquí: de ella participemos como del ordeño, año tras año, cada vez más alto. Tuya es la luz, que todo lo envuelve; tuyo para el propósito sagrado; tuya es la destreza; tuya es la gracia del buen bienestar, como lo debidamente ofrecido en Agni. De lo que Indra bebió, de lo que Prajāpati comió, dulce como miel, invocado, invocado, de ello como yo.
पय॑सः । रेतः॑ । आ-भृ॑तम् । तस्य॑ । दोह॑म् । अ॒शी॒म॒हि । उत्त॑राम्-उत्तरा॒म् । समा॑म् । त्विषः॑ । सं॒वृक् । क्रत्वे॑ । दक्ष॑स्य । ते॒ । सुषु॒म्णस्य॑ । ते॒ । सुषु॒म्ण-अ॒ग्नि॒हु॒तः । इन्द्र॑-पीतस्य । प्र॒जा-प॑ति-भक्षितस्य । मधु॑-मतः । उप॑-हूतः । उप॑-हूतस्य । भक्षयामि