प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् । त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒ताऽस॑त्
prá tád voced amṛ́taṃ nú vidvā́n gandharvó dhā́ma vibhṛ́taṃ guhā́ sád | trī́ṇi padā́ni nihítā guhā́syá yás tā́ni véda sá pitúḥ pitā́ ’sat
Que el conocedor proclame esto, lo inmortal: el Gandharva, morando en la cueva, porta el Orden — la morada distribuida. Tres pasos están ocultos en la cueva; quien los conoce llega a ser el padre del padre.
प्र । तत् । वोचेत् । अमृतम् । नु । विद्वान् । गन्धर्वः । धाम । विभृतम् । गुहा । सत् । त्रीणि । पदानि । निहितानि । गुहायाः । यः । तानि । वेद । सः । पितुः । पिता । असत् ।