पू॒षणं॑ वनि॒ष्ठुना॑ऽन्धा॒हीन्त्स्थू॑लगु॒दया॑ स॒र्पान्गुदा॑भिर्वि॒ह्रुत॑ आ॒न्त्रैर॒पो व॒स्तिना॒ वृष॑णमा॒ण्डाभ्यां॒ वाजि॑न॒ᳪ शेपे॑न प्र॒जाᳪ रेत॑सा॒ चाषा॑न् पि॒त्तेन॑ प्रद॒रान् पा॒युना॑ कू॒श्माञ्छ॑कपिण्डैः
pū́ṣaṇaṃ vaniṣṭhúnā ’ndhāhī́nt sthū́la-gudáyā sarpā́n gudā́bhir víhruta ā́ntraiḥ apó vástinā vṛ́ṣaṇam āṇḍā́bhyām vā́jinaṃ śépena prajā́ṃ rétasā cā́ṣān píttena pradarā́n pāyúnā kūṣmā́ñ śakapiṇḍaíḥ
Pūṣan (está) con la vejiga; las serpientes ciegas con la parte de nalgas gruesas; las serpientes con las nalgas; los que se retuercen con los intestinos; las Aguas con la vejiga; el viril con los dos testículos; el corcel con el miembro; la prole con la semilla; las codornices con la bilis; las laceraciones con el ano; las calabazas con los bolos de excremento.
पूषणम् । वनिष्ठुना । अन्धाहीन् । स्थूल-गुदया । सर्पान् । गुदाभिः । विह्रुतः । आन्त्रैः । अपः । वस्तिना । वृषणम् । अण्डाभ्याम् । वाजिनम् । शेपेन । प्रजाम् । रेतसा । चाषान् । पित्तेन । प्रदरान् । पायुना । कूष्मान् । शक-पिण्डैः