शि॒ल्पा वै॑श्वदे॒व्यो रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः
śilpā́ vaiśvadevyò róhiṇyas tryávayo vā́ce 'vijñātā́ ádityai sárūpā dhā́tre vatsataryò devā́nāṃ pátnībhyaḥ
Las bien formadas son para los Viśvedevās (Todos‑los‑dioses); las rojizas; las de tres miembros. Las no reconocidas son para Vāc (la Palabra); las de forma semejante para Aditi; las «con ternero» (portadoras de ternero) para Dhātṛ; las de condición bovina para las Esposas de los dioses.
शिल्पाः । वैश्वदेव्यः । रोहिण्यः । त्रि-अवयः । वाचे । अविज्ञाताः । अदित्यै । सरूपाः । धात्रे । वत्स-तर्यः । देवानाम् । पत्नीभ्यः