द्यौ॑स्ते पृथि॒व्यन्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते । सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या
dyáus te pṛthivī́ antárikṣaṃ vāyúś chidráṃ pṛṇātu te | sū́ryas te nákṣatraiḥ sahá lókaṃ kṛṇotu sādhúyā
El Cielo, la Tierra y el espacio intermedio son tuyos; que Vāyu, el Viento, rellene para ti la hendidura; y que el Sol, junto con las Estrellas, te disponga debidamente un mundo: un lugar asentado y propicio.
द्यौः॑ । ते । पृथि॒वी । अ॒न्तरि॑क्षम् । वा॒युः । छि॒द्रम् । पृ॑णातु । ते । सूर्यः॑ । ते । नक्ष॑त्रैः । स॒ह । लो॒कम् । कृ॑णोतु । साधु॒या ।