ज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
jyáiṣṭhyaṃ ca me ā́dhipatyaṃ ca me manyúś ca me bhā́maś ca me ’máś ca me ’mbháś ca me jémā ca me mahimā́ ca me varimā́ ca me prathimā́ ca me varṣimā́ ca me drāghimā́ ca me vṛ́ddhaṃ ca me vṛ́ddhiś ca me yajñéna kalpantām
Sean míos la preeminencia y el señorío; míos el ardor y el esplendor; míos la fuerza y las aguas; míos la conquista y la grandeza; míos la anchura y la expansión; míos la altura y la longitud; míos lo crecido y el aumento: que todo ello sea debidamente dispuesto por el sacrificio (yajña).
ज्यैष्ठ्यम् च मे । आधिपत्यम् च मे । मन्युः च मे । भामः च मे । अमः च मे । अम्भः च मे । जेमा च मे । महिमा च मे । वरिमा च मे । प्रथिमा च मे । वर्षिमा च मे । द्राघिमा च मे । वृद्धम् च मे । वृद्धिः च मे । यज्ञेन कल्पन्ताम् ।