दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि
devásya tvā savitúḥ prasavé ’śvinor bāhúbhyāṃ pūṣṇó hástābhyām | sárasvatyai vā́co yantúr yantreṇā́gneḥ sā́mrājyenā́bhiṣiñcāmi ||
Por el impulso del dios Savitṛ, con los brazos de los Aśvins, con las manos de Pūṣan, con Sarasvatī—señora de la palabra—mediante el instrumento de dominio, con la soberanía universal de Agni, yo te unjo.
देवस्य । त्वा । सवितुः । प्रसवे । अश्विनोः । बाहुभ्याम् । पूष्णः । हस्ताभ्याम् । सरस्वत्यै । वाचः । यन्तुः । यन्त्रेण । अग्नेः । साम्राज्येन । अभिषिञ्चामि ।